Текст песни
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ प्रथमोऽध्यायः ।
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ ।
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥यदुदाहृतम् १॥
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् ।परिवारितम् अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥नाट्यकोविदम् २॥
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा ।
पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ ३॥
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ ४॥
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६॥
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ ७॥
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे ।
त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ ८॥
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते ।
ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥ ९॥ देवदानवगन्धर्वयक्षरक्षोमहोरगैः ।
जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १०॥
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः ।
क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥यद्भवेत् ११॥
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु ।
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥सार्ववर्णिकम् १२॥
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च ।
सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥तत्त्ववित् १३॥
(नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु ।
वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥पञ्चमम् )
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् ।ससङ्ग्रहम्
भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥सर्वकर्मानुदर्शकम् १४॥
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् ।सर्वशिल्पप्रवर्तकम्
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥करोम्यहम् १५॥
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन्भगवान् सर्ववेदाननुस्मरन् ।सर्ववेदाननुस्मरन्
नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥चतुर्वेदाङ्गसम्भवम् १६॥
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १७॥
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना ।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ १८॥
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ।सुरेश्वरम्
इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥नियुज्यताम् १९॥
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः ।
तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ २०॥
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् ।यदुदाहृतम्
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥पितामहम् २१॥
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम ।
अशक्ता भगवन् देवाभगवन्देवा अयोग्या नाट्यकर्मणि ॥ २२॥
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः ।
एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ २३॥
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः ।
त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ २४॥
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् ।पितामहात्
पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ २५॥
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा ।
जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ २६॥
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा ।
कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ २७॥
जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा ।
कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥शालिकम् २८॥
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा ।
बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥सैन्धवायनम् २९॥
तैतिलं भार्गवं चैव शुचिं बहुलमेव च ।
अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥सुकेरलम् ३०॥
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा ।
मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ ३१॥
तुषारं पार्षदं चैव गौतमं बादरायणम् ।बादरायणम्
विशालं शबलं चैव सुनामं मेषमेव च ॥ ३२॥
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् ।मुनिम्
नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ ३३॥
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा ।
अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ ३४॥
कर्तराक्षं हिरण्याक्षं कुशलं दुःसहं तथा ।
लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥सविचक्षणम् ३५॥
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च ।
विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ ३६॥
श्यामायनं माठरं च लोहिताङ्गं तथैव च ।
संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ ३७॥
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च ।
शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ ३८॥
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च ।
पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ ३९॥
प्रयोजितं पुत्रशतं यथाभूमिविभागशः ।
यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् सयोग्यस्तस्मिन् योजितः ॥ ४०॥
भारतीं सात्वतीं चैव वृत्तिमारभटीं तथा ।
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ ४१॥
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया ।
अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ ४२॥
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम ।
एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ ४३॥
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् ।सम्प्रयोजकम्
नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ ४४॥
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः ।
कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥ ४५॥
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते ।
ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ ४६॥
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः ।
मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥सुलोचनाम् ४७॥
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् ।मनोरमाम्
सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ ४८॥
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा ।
मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥धृतिम् ४९॥
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ ।
स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः